||Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chapter 13||


||om tat sat||

Select text in Devanagari Kannada Gujarati English
उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
त्रयोदशोऽध्यायः ॥

ऋषिरुवाच॥

एतत्ते कथितं भूप देवी महात्म्यमुत्तमम्॥1||

एवम्प्रभावा सा देवी ययेदं धार्यते जगत्।
विद्या तथैव क्रियते भगवद् विष्णुमायया॥2||

तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः।
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे॥3||

तामुपैहि महाराज शरणं परमेश्वरीम्।
आराधिता सैव नृणां भोगस्वर्गापवर्गदा॥4||

मार्कण्डेय उवाच॥

इति तस्य वचः श्रुत्वा सुरथः स नराधिपः।
प्रणिपत्य महाभागं तं ऋषिं संशितव्रतम्॥5||

निर्विण्णोऽतिममत्वेन राज्यापहरेणन च।
जगाम सद्यः तपसे स च वैश्यो महामुने॥6||

सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः।
स च वैश्यः तपस्तेपे देवीसूक्तं परं जपन्॥7||

तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम्।
अर्हणां चक्रतुः तस्याः पुष्पधूपाग्नि तर्पणैः॥8||

निराहारौ यताहारौ तन्मनस्कौ समाहितौ।
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्॥9||

एवं समाराधयतो स्त्रिभिर्वर्षैर्यतात्मनोः।
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका॥10||

देव्युवाच॥

यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन।
मत्तः तत्प्राप्यतां सर्वं परितुष्टा ददामि तत्॥11||

मार्कण्डेय उवाच॥

ततोवव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि।
अत्र चैव निजं राज्यं हतशत्रु बलं बलात्॥12||

सोऽपिवैश्यः ततो ज्ञानं वव्रे निर्विण्णमानसः।
ममेत्यहमिति प्राज्ञः सङ्गविच्युति कारकम्॥13||

देव्युवाच॥

स्वल्पैरहोभिर्नृपते स्वराज्यं प्राप्स्यते भवान्।
हत्वा रिपूनस्खलितं तव तत्र भविष्यति॥14||

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः।
सावर्णिको नाम मनुः भवान्भुवि भविष्यति॥15||

वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्चितः ।
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति॥16||

मार्कण्डेय उवाच॥

इति दत्वा तयोर्देवी यथा अभिलषितं वरं।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यां अभिष्टुता॥17||

एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः।
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः॥18||

सावर्णिर्भविता मनुः क्लीं ओम्॥19||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये सुरथवैश्ययोर्वर प्रदानं नाम
त्रयोदशोऽध्यायः॥

श्री सप्तशतीदेवी महात्म्यं समाप्तम्
॥ ओम् तत् सत्॥
॥ओम्॥
=====================================

updated 27 09 2022 0700